Chapter 54 Effects of Antardashas in the Dasha of Mars

बृहत्पाराशरहोराशास्त्रम् अध्यायः ५४ (कुजदशान्तर्दशाफलाध्यायः)

अथ कुजदशान्तर्दशाफलाध्यायः ||५४||

कुजे स्वान्तर्गते विप्र लग्नात्केन्द्रत्रिकोणगे |
लाभे वा शुभसंयुक्ते दुष्चिक्ये धनसंयुते ||१||

लग्नाधिपेन संयुक्ते राजाऽनुग्रहवैभवम् |
लक्ष्मीकटोक्षचिह्नानि नष्टराज्यार्थलाभकृत् ||२||

पुत्रोत्सवादिसन्तोषो गृहे गोक्षीरसङ्कलम् |
स्वोच्चे वा स्वर्क्षगे भौमे स्वांशे वा बलसंयुते ||३||

गृहक्षेत्राभिवृद्धिश्च गोमहिष्यादिलाभकृत् |
महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ||४||

Chapter 53 Effects of the Antardashas in the Dasha of Moon

बृहत्पाराशरहोराशास्त्रम् अध्यायः ५३ (चन्द्रान्तर्दशाफलाध्यायः)

अथ चन्द्रान्तर्दशाफलाध्यायः ||५३||

स्वोच्चे स्वक्षेत्रगे चन्द्रे त्रिकोणे लाभगेऽपि वा |
भाग्यकर्माधिपैर्युक्ते गजाश्वाम्बरसंकुलम् ||१||

देवतागुरुभक्तिश्च पुण्यश्लोकादिकीर्तनम् |
राज्यलाभो महत्सौख्यं यशोवृद्धिः सुखावहा ||२||

पूर्णे चन्द्रे बलं पूर्णं सेनापत्यं महत्सुखम् |
पापयुक्तेऽथवा चन्द्रे नीचे वा रिष्फषष्ठगे ||३||

अतकाले धननाशः स्यात्स्थानच्युतिरथापि वा |
देहलस्यं मनस्तपो राजमन्त्रिविरोधकृत् ||४||

Chapter 52 Effects of Antardashas in the Dasha of Sun

बृहत्पाराशरहोराशास्त्रम् अध्यायः ५२ (विंशोत्तरीमतेन सूर्यदशान्तर्दशाफलाध्यायः)

अथ विंशोत्तरीमतेन सूर्यदशान्तर्दशाफलाध्यायः ||५२||

स्वोच्चे स्व्भे स्थितः सूर्यो लाभे केन्द्रे त्रिकोणके |
स्वदशायां स्वभुक्तौ च धनधान्यादिलाभकृत् ||१||

नीचाद्यशुभराशिस्थो विपरीतं फलं दिशेत् |
द्वितीयद्यूननाथेऽर्के त्वपमृत्युभयं वदेत् ||२||

तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् |
सूर्यप्रीतिकरीं शान्तिं कुर्यादारोग्यलब्धये ||३||

सूर्यस्याऽन्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे |
विवाहं शुभकार्यं च धनधान्यसमृद्धिकृत् ||४||

Chapter 51 Antar Dashas

बृहत्पाराशरहोराशास्त्रम् अध्यायः ५१ (अथाऽन्तर्दशाध्यायः)

अथाऽन्तर्दशाध्यायः ||५१||

दशाब्दाः स्वस्वमानघ्नाः सर्वायुर्योगभाजिताः |
पृथगन्तर्दशा एवं प्रत्यन्तरदशादिकाः ||१||

आदावन्तर्दशा पाकपतेस्तत्क्रमतोऽपराः |
एवं प्रत्यन्तरादौ च क्रमो ज्ञेयो विचक्षणैः ||२||

भुक्तिर्नवानां तुल्या स्याद् विभाज्या नवधा दशा |
आदौ दशापतेर्भुक्तिस्तत्केन्द्रादियुजां ततः ||३||

विद्यात् क्रमेण भुक्त्यंशानेवं सूक्ष्मदशादिकम् |
बलक्रमात् फलं विज्ञैर्वक्तव्यं पूर्वरीतितः ||४||

Chapter 50 Effects of Char etc. Dashas

बृहत्पाराशरहोराशास्त्रम् अध्यायः ५० (चरादिदशाफलाध्यायः)

अथ चरादिदशाफलाध्यायः ||५०||

चरस्थिरादिसंज्ञा या दशाः प्रोक्ताः पुरा द्विज |
शुभाऽशुभफलं तासां कथयामि तवाऽग्रतः ||१||

लग्नादिद्वादशान्तानां भावानां फलकीर्तने |
तत्तद्राशीशवीर्येण यथायोग्यं प्रयोजयेत् ||२||

बलयुक्ते च राशीशे पूर्णं तस्य तदा फलम् |
फलं मध्य्बले मध्यं बलहीने विपर्ययः ||३||

यो यो दशाप्रदो राशिस्तस्य रन्ध्रत्रिकोणके |
पापखेटयुते विप्र तद्दशा दुःखदायिका ||४||

तृतीयषष्ठगे पापे ज्यादिः परिकीर्तितः |
शुभखेटयुते तत्र जायते च पराजयः ||५||

Chapter 49 Effects of the Kala Chackra

बृहत्पाराशरहोराशास्त्रम् अध्यायः ४९ (कालचक्रदशाफलाध्यायः)

अथ कालचक्रदशाफलाध्यायः ||४९||

कथयाम्यथ विप्रेन्द्र कालचक्रदशाफलम् |
तत्रादौ राशिनाथानां सूर्यादीनां फलं ब्रुवे ||१||

रक्तपित्तादितो व्याधिं नृणामर्कफलं वदेत् |
धनकीर्तिप्रजावृद्धिवस्त्राभरणदः शशी ||२||

ज्वरमाशु दिशेत् पैत्त्यं ग्रन्थिस्फोटं कुजस्तथा |
प्रजानां च धनानां च सदा वृद्धिं बुधो दिशेत् ||३||

धनं कीर्तिं प्रजावृद्धिं नानाभोगं बृहस्पतिः |
विद्यावृद्धिर्विवाहश्च गृहं धान्यं भृगोः फलम् ||४||

Chapter 48 Distinctive Effects of the Nakshatra Dashas

बृहत्पाराशरहोराशास्त्रम् अध्यायः ४८ (विशेषनक्षत्रदशाफलाध्यायः)

अथ विशेषनक्षत्रदशाफलाध्यायः ||४८||

स्थानस्थितिवशेनैवं फलं प्रोक्तं पुरातनैः |
मिथो भावेशसम्बन्धात्फलानि कथयाम्यहम् ||१||

लग्नेशस्य गशाकाले सत्कीतिर्देहजं सुखम् |
धनेशस्य दशायां तु क्लेशो वा मृत्युतो भयम् ||२||

सहजेशदशाकाले ज्ञेयं पापफलं नृणाम् |
सुखाधीशदशायां तु गृहभूमिसुखं भवेत् ||३||

पञ्चमेशस्य पाके च विद्याप्तिः पुत्रजं सुखम् |
रोगेशस्य दशाकाले देहपीडा रिपोर्भयम् ||४||

Chapter 47 Effects of Dashas

बृहत्पाराशरहोराशास्त्रम् अध्यायः ४७ (दशाफलाद्यायः)

अथ दशाफलाद्यायः ||४७||

श्रुताश्च बहुधा भेदा दशानां च मया मुने |
फलं च कीदृशं तासां कृपया मे तदुच्यताम् ||१||

साधारणं विशिष्टञ्च दशानां द्विविधं फलम् |
ग्रहाणां च स्वभावेन स्थानस्थितिवशेन च ||२||

ग्रहवीर्यानुसारेण फलं ज्ञेयं दशासु च |
आद्यद्रेष्काणगे खेटे दशारम्भे फलं वदेत् ||३||

दशामध्ये फलं वाच्यं मध्यद्रेष्काणगे खगे |
अन्ते फलं तृतीयस्थे व्यस्तं खेटे च वक्रगे ||४||

दशारम्भे दशादीशे लग्नगे शुभदृग्युते |
स्वोच्चे स्वभे स्वमैत्रे वा शुभं तस्य दशाफलम् ||५||

Chapter 46 Dashas of Planets

बृहत्पाराशरहोराशास्त्रम् अध्यायः ४६ (दशाध्यायः)

अथ दशाध्याय ||४६||

सर्वज्ञोऽसि महर्षे त्वं कृपया दीनवत्सल |
दशाः कतिविधाः सन्ति तन्मे कथय तत्त्वतः ||१||

साधु पृष्टं स्वया विप्र लोकानुग्रहकारिणा |
कथयामि तवाग्रेऽहं दशभेदाननेकशः ||२||

दशाबहुविधास्तासु मुख्या विंशोत्तरी मता |
कैश्चिदष्टोत्तरी कैश्चित् कथिता षोडशोत्तरी ||३||

द्वादशाब्दोत्तरी विप्र दशा पञ्चोत्तरी तथा |
दशा शतसमा तद्वत् चतुराशीतिवत्सरा ||४||

द्विसप्ततिसमा षष्टिसमा षड्त्रिंशवत्सरा |
नक्षत्राधारिकाश्चेताः कथिताः पूर्वसूरिभिः ||५||

Chapter 45 Avasthas of Planets

बृहत्पाराशरहोराशास्त्रम् अध्यायः ४५ (ग्रहावस्थाध्यायः)

अथ ग्रहावस्थाध्यायः ||४५||

अवस्थावशतः प्रोक्तं ग्रहाणां यत् फलं मुने |
का साऽवस्था मुनिश्रेष्ठ कतिधा चेति कथ्ययाम् ||१||

अवस्था विविधाः सन्ति ग्रहाणां दिवजसत्तम |
सारभूताश्च यास्तासु बालाद्यास्ता वदाम्यहम् ||२||

क्रमाद् बालः कुमारोऽथ युवा वृद्धस्तथा मृतः |
षडंशैरसमे खेटः समे ज्ञेयो विपर्ययात् ||३||

फलं पादमितं बाले फलार्धं च कुमारके |
यूनि पूर्णं फलं ज्ञेयं वृद्धे किञ्चित् मृते च खम् ||४||

Pages

Subscribe to VedicGyaan with Vivek ji Agarwal RSS