Chapter 84 Remedial Measures to Pacify Planets

बृहत्पाराशरहोराशास्त्रम् अध्यायः ८४ (ग्रहशान्त्यध्यायः)

अथ ग्रहशान्त्यध्यायः ॥ ८४॥

ग्रहाणां दोषशान्त्यर्थं तेषां पूजाविधिं वद ।
मानवानां हितार्थाय संक्षेपात् कृपया मुने ॥ १॥

ग्रहा सूर्यादयः पूर्वं मया प्रोक्ता द्विजोत्तम ।
जगत्यां सर्वजन्तूनां तदधीनं सुखाऽसुखम् ॥ २॥

तस्मात् सुशान्तिकामो वा श्रीकामो वा सुचेतसा ।
वृष्टायायुः पुष्टिकामो वा तेषां यज्ञं समाचरेत् ॥ ३॥

ताभ्राच्च स्फटिकाद्रक्तचन्दनात् स्वर्णकादुभौ ।
रजतादयसः सीसात् कांस्यात् कार्याः क्रामद् ग्रहाः ॥ ४॥

Chapter 83 Effects of the Curses in the previous birth

बृहत्पाराशरहोराशास्त्रम् अध्यायः ८३ (पूर्वजन्मशापद्योतनाध्यायः)
अथ पूर्वजन्मशापद्योतनाध्यायः ॥ ८३॥

महर्षे भवता प्रोक्तं फलं स्त्रीणां नृणां पृथक् ।
अधुना श्रोतुमिच्छामि त्वत्तो वेदविदांवर ॥ १॥

अपुत्रस्य गतिर्नास्ति शास्त्रेषु श्रूयते मुने ।
अपुत्रः केन पापेन भवतीति वद प्रभो ॥ २॥

जन्मलग्नाच्च तज्ज्ञानं कथं दैवविदां भवेत् ।
अपुत्रस्य सुतप्राप्तेरुपायं कृपयोच्यताम् ॥ ३॥

साधु पृष्टं त्वया विप्र कथ्यते हि तथा मया ।
यथोमया हि पृष्टेन शिवेन कथितं पुरा ॥ ४॥

Chapter 82 Effects of Moles, Marks, Signs etc for Men and Women

बृहत्पाराशरहोराशास्त्रम् अध्यायः ८२ (तिलादिलांछनफलाध्यायः)

अथ तिलादिलांछनफलाध्यायः ॥ ८२॥

अथाऽहं देहजातानां लांछनानां फलं ब्रुवे ।
आवर्तानां तिलानां च मशकानां विशेषतः ॥ १॥

अङ्गनानां च वामांगे दक्षिणाङ्गे नृणां शुभम् ।
रक्ताभं तिलकाभं वा लोम्नां चक्रमथापि वा ॥ २॥

तिलादिलांछनं स्त्रीणां हृदि सौभाग्यसूचकम् ।
यस्या दक्षिणवक्षोजे रक्ते तिलकलांछने ॥ ३॥

सा सन्ततिततिं सूते सुखसौभाग्यसंयुताम् ।
रक्ताभं तिलकं यस्याः स्त्रिया वामे स्तने भवेत् ॥ ४॥

Chapter 81 Effects of Characteristic Features of Parts of Woman's Body

बृहत्पाराशरहोराशास्त्रम् अध्यायः ८१ (अंगलक्षणफलाध्यायः)

अथ अंगलक्षणफलाध्यायः ॥ ८१॥

बहुधा भव्ता प्रोक्तं जन्मकालात् शुभाशुभम् ।
श्रोतुमिच्छामि नारोणामङ्गचिह्नैः फल मुने ॥ १॥

शृणु विप्र प्रवक्ष्यामि नारीणामङ्गलक्षणम् ।
फलं यथाऽह पार्वत्यै भगवान् शङ्करस्तथा ॥ २॥

स्निग्धं पादतलं स्त्रीणां मृदुलं मांसलं समम् ।
रक्तमस्वेदमुष्णं च बहुभोगप्रदायकम् ॥ ३॥

विवर्णं पुरुषं रूक्षं खण्डितं विषमं तथा ।
सूर्पाकारञ्च शुष्कं च दुःखदौर्भाग्यदायकम् ॥ ४॥

Chapter 80 Female Horoscopy

बृहत्पाराशरहोराशास्त्रम् अध्यायः ८० (स्त्रीजातकाध्यायः)

अथ स्त्रीजातकाध्यायः ॥ ८०॥

बहुधा भवता प्रोक्तं यज्जातकफलं मुने ।
तन्नारीणां कथं ज्ञेयमिति मे कथयाऽधुना ॥ १॥

साधु पृष्टं त्वया विप्र तदपि प्रवदाम्यहम् ।
स्त्रीणां पुंभिः समं ज्ञेयं फलमुक्तं विपश्चिता ॥ २॥

विशेषस्तत्र यो दृष्टः संक्षेपात् कथयामि तत् ।
लग्ने देहफलं तस्याः पञ्चमे प्रसवस्तथा ॥ ३॥

सप्तमे पतिसौभाग्यं वैधव्यं निधने द्विज ।
स्त्रीणामसम्भवं यद्यत् तत्फलं तत्पतौ वदेत् ॥ ४॥

Chapter 79 Ascetism Yoga

बृहत्पाराशरहोराशास्त्रम् अध्यायः ७९ (प्रव्रज्यायोगाध्यायः)

अथ प्रव्रज्यायोगाध्यायः ॥ ७९॥

अथ विप्र प्रवक्ष्यामि योगं प्रव्रज्यकाभिधम् ।
प्रव्रजन्ति जना येन सम्प्रदायान्तरं गृहात् ॥ १॥

चतुरादिभिरेकस्थैः प्रव्रज्या बलिभिः समाः ।
रव्यादिभिस्तपस्वी च कपाली रक्तवस्त्रभृत् ॥ २॥

एकदण्डी यतिश्चक्रधरो निर्ग्रन्थिकः क्रमात् ।
ज्ञेया वीर्याधिकस्यैव सबलेषु बहुष्वपि ॥ ३॥

सूर्येणाऽस्तं गतास्ते चेदपि वीर्यसमन्विताः ।
अदीक्षितास्तदा ज्ञेया जनास्तद्गतभक्तयः ॥ ४॥

Chapter 78 Lost Horoscopy

बृहत्पाराशरहोराशास्त्रम् अध्यायः ७८ (नष्टजातकाध्यायः)

अथ नष्टजातकाध्यायः ॥ ७८॥

जन्मकालवशादेवं फलं प्रोक्तं त्वया मुने ।
यज्जन्मसमयोऽज्ञातो ज्ञेयं तस्य फलं कथम् ॥ १॥

शुभं वाऽप्यशुभं वापि मनुजस्य पुराकृतम् ।
अस्ति कश्चिदुपायश्चेत् तं भवान् वक्तुमर्हति ॥ २॥

साधु पृष्टं त्वया विप्र लोकानुग्रहमानसा ।
कथयामि तव स्नेहात् फलमज्ञातजन्मनाम् ॥ ३॥

वर्षायनर्तुमासार्धतिथिनक्षत्रभादिषु ।
यदज्ञातं च तन्मानं ज्ञायते प्रश्नलग्नतः ॥ ४॥

प्रश्नाङ्गद्वादशांशर्क्षस्थिते जन्म वदेत् गुरौ ।
अयनं लग्नपूर्वार्धे सौम्यं याम्यं परार्धके ॥ ५॥

Chapter 77 Effects of the Gunas

बृहत्पाराशरहोराशास्त्रम् अध्यायः ७७ (सत्त्वादिगुणफलाध्यायः)

अथ सत्त्वादिगुणफलाध्यायः ॥ ७७॥

अथो गुणवशेनाहं कथयामि फलं द्विज ।
सत्त्वग्रहोदये जातो भवेत्सत्त्वाधिकः सुधीः ॥ १॥

रजःखेटोदये विज्ञो रजोगुणसमन्वितः ।
तमःखेटोदये मूर्खो भवेज्जातस्तमोऽधिकः ॥ २॥

गुणसाम्ययुतो जातो गुणसाम्यखगोदये ।
एवं चतुर्विधा विप्र जायन्तो जन्तवो भुवि ॥ ३॥

उत्तमो मध्यमो नीच उदासीन इति क्रमात् ।
तेषां गुणानहं वक्ष्ये नारदारिप्रभाषितान् ॥ ४॥

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
अलोभः सत्यवादित्वं जने सत्त्वाधिके गुणाः ॥ ५॥

Chapter 76 Effects of the Elements

बृहत्पाराशरहोराशास्त्रम् अध्यायः ७६ (पंचमहाभूतफलाध्यायः)

अथ पंचमहाभूतफलाध्यायः ॥ ७६॥

अथ पञ्चमहाभूतच्छायाज्ञानं वदामि ते ।
ज्ञायते येन खेटानां वर्तमानदशा बुधैः ॥ १॥

शिखिभूखाम्बुवातानामधिपा मङ्गलादयः ।
तत्तद्बलावशाज्ज्ञेयं तत्तद्भूतभवं फलम् ॥ २॥

सबले मङ्गले वह्निस्वभावो जायते नरः ।
बुधे महीस्वभावः स्यादाकाशप्रकृतिर्गुरौ ॥ ३॥

शुक्रे जलस्वभावश्च मारुतप्रकृतिः शनौ ।
मिश्रैर्मिश्रस्वभावश्च विज्ञेयो द्विजसत्तम ॥ ४॥

सूर्ये वह्निस्वभावश्च जलप्रकृतिको विधौ ।
स्वदशायां ग्रहाश्छायां व्यंजयन्ति स्वभूतजाम् ॥ ५॥

Chapter 75 Characteristic Features of Panchmahapurushas

बृहत्पाराशरहोराशास्त्रम् अध्यायः ७५ (पंचमहापुरुषलक्षणाध्यायः)

अथ पंचमहापुरुषलक्षणाध्यायः ॥ ७५॥

अथ वक्ष्याम्यहं पञ्चमहापुरुषलक्षणम् ।
स्वभोच्चगतकेन्द्रस्थैर्बलिभिश्च कुजादिभिः ॥ १॥

क्रमशो रुचको भद्रो हंसो मालव्य एव च ।
शशश्चैते बुधैः सर्वैर्महान्तः पुरुषाः स्मृताः ॥ २॥

दीर्घाननो महोत्साहो स्वच्छकान्तिर्महाबलः ।
चारुभ्रूर्नीलकेशश्च सुरुचिश्च रणप्रियः ॥ ३॥

रक्तश्यामोऽरिहन्ता च मन्त्रविच्चोरनायकः ।
क्रूरोभर्ता मनुष्याणां क्षामाऽङ्घ्रिर्द्विजपूजकः ॥ ४॥

Pages

Subscribe to VedicGyaan with Vivek ji Agarwal RSS